लक्ष्य निर्धारित कर सम्यकत्व के लिए पुरुषार्थ करेंगे तो मोक्ष का मार्ग मिलेगा- पूज्य श्री अतिशयमुनिजी म.सा.
लक्ष्य निर्धारित कर सम्यकत्व के लिए पुरुषार्थ करेंगे तो मोक्ष का मार्ग मिलेगा- पूज्य श्री अतिशयमुनिजी म.सा.
jain news jain mantra jain music stavan songs news facts astrology vastu shastra health treatment baby names india tourist place news ayurvedic upchar health disease best places to visit in india and world health blogging hosting domain wishing message blogging blogger tips free adsense friendly template theme for blogger blogspot.com blogger blogspot.com adsense blogging tips in english hindi blogging tips e cards wishing images
अर्हन्तो भगवत इन्द्रमहिताः, सिद्धाश्च सिद्धीश्वरा,आचार्याः जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाःश्रीसिद्धान्तसुपाठकाः, मुनिवरा रत्नत्रयाराधकाः,पञ्चैते परमेष्ठिनः प्रतिदिनं, कुर्वन्तु नः मंगलम्
श्रीमन्नम्र – सुरासुरेन्द्र – मुकुट – प्रद्योत – रत्नप्रभा-भास्वत्पादनखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनःये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठकाः साधवःस्तुत्या योगीजनैश्च पञ्चगुरवः कुर्वन्तु नः मंगलम्
सम्यग्दर्शन-बोध-व्रत्तममलं, रत्नत्रयं पावनं,मुक्ति श्रीनगराधिनाथ – जिनपत्युक्तोऽपवर्गप्रदःधर्म सूक्तिसुधा च चैत्यमखिलं, चैत्यालयं श्रयालयं,प्रोक्तं च त्रिविधं चतुर्विधममी, कुर्वन्तु नः मंगलम्
नाभेयादिजिनाः प्रशस्त-वदनाः ख्याताश्चतुर्विंशतिः,श्रीमन्तो भरतेश्वर-प्रभृतयो ये चक्रिणो द्वादशये विष्णु-प्रतिविष्णु-लांगलधराः सप्तोत्तराविंशतिः,त्रैकाल्ये प्रथितास्त्रिषष्टि-पुरुषाः कुर्वन्तु नः मंगलम्
ये सर्वौषध-ऋद्धयः सुतपसो वृद्धिंगताः पञ्च ये,ये चाष्टाँग-महानिमित्तकुशलाः येऽष्टाविधाश्चारणाःपञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धिऋद्धिश्वराः,सप्तैते सकलार्चिता मुनिवराः कुर्वन्तु नः मंगलम्
ज्योतिर्व्यन्तर-भावनामरग्रहे मेरौ कुलाद्रौ स्थिताः,जम्बूशाल्मलि-चैत्य-शखिषु तथा वक्षार-रुप्याद्रिषुइक्ष्वाकार-गिरौ च कुण्डलादि द्वीपे च नन्दीश्वरे,शैले ये मनुजोत्तरे जिन-ग्रहाः कुर्वन्तु नः मंगलम्
कैलाशे वृषभस्य निर्व्रतिमही वीरस्य पावापुरेचम्पायां वसुपूज्यसुज्जिनपतेः सम्मेदशैलेऽर्हताम्शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतः,निर्वाणावनयः प्रसिद्धविभवाः कुर्वन्तु नः मंगलम्
यो गर्भावतरोत्सवो भगवतां जन्माभिषेकोत्सवो,यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञानभाक्यः कैवल्यपुर-प्रवेश-महिमा सम्पदितः स्वर्गिभिःकल्याणानि च तानि पंच सततं कुर्वन्तु नः मंगलम्
सर्पो हारलता भवत्यसिलता सत्पुष्पदामायते,सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपुःदेवाः यान्ति वशं प्रसन्नमनसः किं वा बहु ब्रूमहे,धर्मादेव नभोऽपि वर्षति नगैः कुर्वन्तु नः मंगलम्
इत्थं श्रीजिन-मंगलाष्टकमिदं सौभाग्य-सम्पत्करम्,कल्याणेषु महोत्सवेषु सुधियस्तीर्थंकराणामुषःये श्र्रण्वन्ति पठन्ति तैश्च सुजनैः धर्मार्थ-कामाविन्ताः,लक्ष्मीराश्रयते व्यपाय-रहिता निर्वाण-लक्ष्मीरपि
Comments
Post a Comment